मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३९, ऋक् ५

संहिता

स चि॑केत॒ सही॑यसा॒ग्निश्चि॒त्रेण॒ कर्म॑णा ।
स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीवृ॑त इ॒नोति॑ च प्रती॒व्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

सः । चि॒के॒त॒ । सही॑यसा । अ॒ग्निः । चि॒त्रेण॑ । कर्म॑णा ।
सः । होता॑ । शश्व॑तीनाम् । दक्षि॑णाभिः । अ॒भिऽवृ॑तः । इ॒नोति॑ । च॒ । प्र॒ती॒व्य॑म् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

सोग्निः सहीयसा अभिभावुकेन चित्रेण नानाविधेन कर्मणा व्यापारेण चिकेत ज्ञायते सोग्निः शश्वतीनां बह्वीनां देवतानां होता ह्वाता दक्षिणाभिः पशुभिश्चाभीवृतः परिवृतः प्रतीव्यं प्रत्येतव्यं शत्रुमिनोतिच गच्छतिच । सिद्धमन्यत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२