मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३९, ऋक् ६

संहिता

अ॒ग्निर्जा॒ता दे॒वाना॑म॒ग्निर्वे॑द॒ मर्ता॑नामपी॒च्य॑म् ।
अ॒ग्निः स द्र॑विणो॒दा अ॒ग्निर्द्वारा॒ व्यू॑र्णुते॒ स्वा॑हुतो॒ नवी॑यसा॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

अ॒ग्निः । जा॒ता । दे॒वाना॑म् । अ॒ग्निः । वे॒द॒ । मर्ता॑नाम् । अ॒पी॒च्य॑म् ।
अ॒ग्निः । सः । द्र॒वि॒णः॒ऽदाः । अ॒ग्निः । द्वारा॑ । वि । ऊ॒र्णु॒ते॒ । सुऽआ॑हुतः । नवी॑यसा । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

देवानां जाता जातानि जन्मान्यग्निर्वेद वेत्ति मर्तानां मनुष्याणां चापीच्यं गुह्यमग्निर्वेद वेत्ति सोग्निर्द्रविणोदाः धनस्य दाता नबीयसा नवतरेण हवि- षा स्वाहुतः सम्यक् हुतोग्निः द्वारा धनस्य द्वाराणि व्यूर्णुतेच । सिद्धमन्यत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३