मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३९, ऋक् ७

संहिता

अ॒ग्निर्दे॒वेषु॒ संव॑सु॒ः स वि॒क्षु य॒ज्ञिया॒स्वा ।
स मु॒दा काव्या॑ पु॒रु विश्वं॒ भूमे॑व पुष्यति दे॒वो दे॒वेषु॑ य॒ज्ञियो॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

अ॒ग्निः । दे॒वेषु॑ । सम्ऽव॑सुः । सः । वि॒क्षु । य॒ज्ञिया॑सु । आ ।
सः । मु॒दा । काव्या॑ । पु॒रु । विश्व॑म् । भूम॑ऽइव । पु॒ष्य॒ति॒ । दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

यो देवेषु मध्येग्निः संवसुः संवसति सोग्निर्यज्ञियासु यज्ञार्हासु विक्षु प्रजास्वप्यासंवसुः । किञ्च सोग्निः पुरु बहूनि काव्या कर्माणि भूमेव यथा भूमिः विश्वं तथा मुदा मोदेन पुष्यति देवेषु मध्ये देवोग्निर्यज्ञियोयज्ञार्हश्च भवति । सिद्धमन्यत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३