मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३९, ऋक् ९

संहिता

अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः ।
स त्रीँरे॑काद॒शाँ इ॒ह यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतो॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

अ॒ग्निः । त्रीणि॑ । त्रि॒ऽधातू॑नि । आ । क्षे॒ति॒ । वि॒दथा॑ । क॒विः ।
सः । त्रीन् । ए॒का॒द॒शान् । इ॒ह । यक्ष॑त् । च॒ । पि॒प्रय॑त् । च॒ । नः॒ । विप्रः॑ । दू॒तः । परि॑ऽकृतः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

कविः क्रान्तदर्श्यग्निः त्रीणि त्रिधातूनि त्रिबंधनानि पृथिव्यादीनि विदथा वेदनीयानि स्थानान्याक्षेत्यावसति अपिच सोग्निर्दूतो देवानां विप्रः प्राज्ञः परिष्कृतोलंकृतश्च सन्निह यज्ञे त्रीनेकादशान् त्रयस्त्रिंशद्देवान् यक्षद्यजतु नोस्मान् पिप्रयच्च कामैः पूरयतु च । सिद्धमन्यत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३