मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४१, ऋक् १

संहिता

अ॒स्मा ऊ॒ षु प्रभू॑तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा॑ वि॒दुष्ट॑रेभ्यः ।
यो धी॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

अ॒स्मै । ऊं॒ इति॑ । सु । प्रऽभू॑तये । वरु॑णाय । म॒रुत्ऽभ्यः॑ । अर्च॑ । वि॒दुःऽत॑रेभ्यः ।
यः । धी॒ता । मानु॑षाणाम् । प॒श्वः । गाःऽइ॑व । रक्ष॑ति । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

हे स्तोतः सुप्रभूतये प्रकृष्टधनायास्मै वरुणाय विदुष्टरेभ्यो विद्वत्तरेभ्यो मरुद्भ्यश्चार्च स्तुहि । योवरुणो धीता कर्मणा मानुषाणां मबुष्याणांपश्वः पशून् गाइव रक्षति । सिद्धमन्यत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६