मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४१, ऋक् ३

संहिता

स क्षप॒ः परि॑ षस्वजे॒ न्यु१॒॑स्रो मा॒यया॑ दधे॒ स विश्वं॒ परि॑ दर्श॒तः ।
तस्य॒ वेनी॒रनु॑ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

सः । क्षपः॑ । परि॑ । स॒स्व॒जे॒ । नि । उ॒स्रः । मा॒यया॑ । द॒धे॒ । सः । विश्व॑म् । परि॑ । द॒र्श॒तः ।
तस्य॑ । वेनीः॑ । अनु॑ । व्र॒तम् । उ॒षः । ति॒स्रः । अ॒व॒र्ध॒य॒न् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

सवरुणः क्षपोरात्रीः परिषस्वजे परिष्वजते अपिच दर्शतो दर्शनीयः सवरुणः उस्रःउत्सरणशीलः सन् विश्वं मायया कमर्णा परि परितः निदधे निद- धाति । किञ्च तस्य वरुणस्य व्रतं कर्म वेनीः कामयमानाः प्रजास्तिस्रउषस्त्रिषु प्रातर्माध्यन्दिनं सायञ्च अन्ववर्धयन् अनुवर्धयन्ति । सिद्धमन्यत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६