मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४१, ऋक् ४

संहिता

यः क॒कुभो॑ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः ।
स माता॑ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा इ॒वेर्यो॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

यः । क॒कुभः॑ । नि॒ऽधा॒र॒यः । पृ॒थि॒व्याम् । अधि॑ । द॒र्श॒तः ।
सः । माता॑ । पू॒र्व्यम् । प॒दम् । तत् । वरु॑णस्य । सप्त्य॑म् । सः । हि । गो॒पाःऽइ॑व । इर्यः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

योवरुणः पृथिव्यामधि पृथिव्याउपरि दर्शतो दर्शनीयः सन् ककुभो दिशो निधारयः निधारयति सवरुणोमाता निर्माता पूर्व्यं प्रत्नं पदं स्वर्गाख्यं स्थानं सप्त्यं अस्माभिश्चसर्पणीयं तद्वरुणस्यस्वकृतम् । अपिच सहि सएव इर्यईश्वरः सन् गोपाइव गोपालइव पशूनामस्माकं रक्षिता । सिद्धमन्यत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६