मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४१, ऋक् ५

संहिता

यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑ ।
स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

यः । ध॒र्ता । भुव॑नानाम् । यः । उ॒स्राणा॑म् । अ॒पी॒च्या॑ । वेद॑ । नामा॑नि । गुह्या॑ ।
सः । क॒विः । काव्या॑ । पु॒रु । रू॒पम् । द्यौःऽइ॑व । पु॒ष्य॒ति॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

योवरुणोभुवनानां धर्ता धारयिता यश्चोस्राणां देवाधिष्ठानभूतानां रश्मीनामपिच्यापीच्यान्यन्तर्हितानि गुह्या गुह्यानि गुहायां निहितानि नामानि वेद जानाति सवरुणः कविः प्राज्ञःसन् काव्या काव्यानि कविकर्माणि पुरु बहूनि रूपं द्यौरिव पुष्यति । सिद्धमन्यत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६