मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४१, ऋक् ७

संहिता

य आ॒स्वत्क॑ आ॒शये॒ विश्वा॑ जा॒तान्ये॑षाम् ।
परि॒ धामा॑नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे॑ दे॒वा अनु॑ व्र॒तं नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

यः । आ॒सु॒ । अत्कः॑ । आ॒ऽशये॑ । विश्वा॑ । जा॒तानि॑ । ए॒षा॒म् ।
परि॑ । धामा॑नि । मर्मृ॑शत् । वरु॑णस्य । पु॒रः । गये॑ । विश्वे॑ । दे॒वाः । अनु॑ । व्र॒तम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

यः वरुणः आसुदिक्षु अत्कः व्याप्तःसन् आशये जागृतोवर्तते यः वरुणः एषां शत्रूणां विश्वा सर्वाणि परिजातानि परितोभूतानि धामानि पुराणि मर्मृशत् परिमृशतोवरुणस्य पुरोगये रथस्यपुरस्ताद्धवति तस्य वरुणस्य पुरस्ताद्विश्वे सर्वेदेवा व्रतं कर्मानुगच्छन्तीत्यर्थः । सिद्धमन्यत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७