मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४१, ऋक् ८

संहिता

स स॑मु॒द्रो अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा॑सु॒ यजु॑र्द॒धे ।
स मा॒या अ॒र्चिना॑ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

सः । स॒मु॒द्रः । अ॒पी॒च्यः॑ । तु॒रः । द्याम्ऽइ॑व । रो॒ह॒ति॒ । नि । यत् । आ॒सु॒ । यजुः॑ । द॒धे ।
सः । मा॒याः । अ॒र्चिना॑ । प॒दा । अस्तृ॑णात् । नाक॑म् । आ । अ॒रु॒ह॒त् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

यस्मादापः समुद्द्रवन्ति सवरुणः समुद्रोपीच्योन्तर्हितः तुरः क्षिप्रः द्यामिव यथा आदित्योद्यां रोहति तथा नाकं रोहति । अपिच यत् योवरुणः आसु दिक्षु यजुः प्रजाभ्योदानं निदधे निदधाति सवरुणः मायाः असुराणां माया अर्चिना अर्चिष्मता पदा स्थानेन तेजसेत्यर्थः अस्तृणात् समंताद्धिनस्ति नाकं स्वर्गमारुहदारोहति । सिद्धमन्यत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७