मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४१, ऋक् ९

संहिता

यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी॑रधिक्षि॒तः ।
त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सद॒ः स स॑प्ता॒नामि॑रज्यति॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

यस्य॑ । श्वे॒ता । वि॒ऽच॒क्ष॒णा । ति॒स्रः । भूमीः॑ । अ॒धि॒ऽक्षि॒तः ।
त्रिः । उत्ऽत॑राणि । प॒प्रतुः॑ । वरु॑णस्य । ध्रु॒वम् । सदः॑ । सः । स॒प्ता॒नाम् । इ॒र॒ज्य॒ति॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

यस्य वरुणस्याधिक्षितोंतरिक्षेधिवसतःश्वेता श्वेतानि विचक्षणा तेजांसि तिस्रोभूमीः त्रिरुत्तराणि तिसॄणां अधिस्थितानि भुवनानि पप्रतुःप्रथयन्ति । तथाचमन्त्रवर्णः-तिस्रोभूमीर्धारयन्त्रीँ रुतद्यूनिति । तस्य वरुणस्य सदः स्थानं ध्रुवमचलमिति । किञ्च सवरुणः सप्तानां सिनामिरज्यतीश्वरोभवति । सिद्धमन्यत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७