मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४१, ऋक् १०

संहिता

यः श्वे॒ताँ अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ अनु॑ व्र॒ता ।
स धाम॑ पू॒र्व्यं म॑मे॒ यः स्क॒म्भेन॒ वि रोद॑सी अ॒जो न द्यामधा॑रय॒न्नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

यः । श्वे॒तान् । अधि॑ऽनिर्निजः । च॒क्रे । कृ॒ष्णान् । अनु॑ । व्र॒ता ।
सः । धाम॑ । पू॒र्व्यम् । म॒मे॒ । यः । स्क॒म्भेन॑ । वि । रोद॑सी॒ इति॑ । अ॒जः । न । द्याम् । अधा॑रयत् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

योवरुणः निर्निजः आत्मीयान्रश्मीन् दिवा श्वेतानधिचक्रेधिकरोति तथा रात्रौ कृष्णान् चक्रे सवरुणोनुव्रता कर्माणि लक्षीकृत्योभयविधकर्मानुगुणं पूर्व्यं धामान्तरिक्षं दिवं वा ममे निर्ममे । अपिच यः स्कं भेनान्तरिक्षेण अजोन यथा आदित्योद्यां धारयति तथा रोदसी द्यावापृथिव्यौ व्यधारयत् विधारयति सवरुणइत्यर्थः । सिद्धमन्यत् ॥ १० ॥

अस्तभ्रादिति षळृचं द्वादशं सूक्तं अर्यनानाऋषिः काण्वोनाभाकोवाऋषिः उत्तरेत्वर्चनानाः आद्यस्तृचस्त्रैष्टुभोवरुणदेवत्यः द्वितीयस्तृचआनुष्टु- भोश्विदेवताकः । तथाचानुक्रान्तम्अस्तभ्रात्षळर्चनानावा त्रैष्टुभमन्त्यंवा तृचमाश्विनमानुष्टुभमपश्यदिति । सूक्तविनियोगोलैंगिकः । वारुणेपशौ हविषोयाज्या अस्तभ्रादिति । सूत्रितञ्च-अस्तभ्राद्यामसुरोविश्ववेदाइत्येकादशिनइति । अग्नीषोमप्रणयनेप्येषोत्तरा परिधानीया । तथासूत्रितं-अस्त- भ्राद्यामसुरोविश्ववेदाइति परिदध्यादुत्तरयावेति । एवावन्दस्वेत्येषा वारुणेपशौ हविषोनुवाक्या । सूत्रितञ्च-एवावन्दस्ववरुणंबृहन्तं तत्त्वायामिब्र- ह्मणावन्दमानइति द्वे । सोमप्रवहणेइमांधियमित्येषा परिधानीया । सूत्रितञ्च-इमांधियंशिक्षमाणस्यदेवेति विहितेपरिदध्यादिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७