मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४२, ऋक् १

संहिता

अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः ।
आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥

पदपाठः

अस्त॑भ्नात् । द्याम् । असु॑रः । वि॒श्वऽवे॑दाः । अमि॑मीत । व॒रि॒माण॑म् । पृ॒थि॒व्याः ।
आ । अ॒सी॒द॒त् । विश्वा॑ । भुव॑नानि । स॒म्ऽराट् । विश्वा॑ । इत् । तानि॑ । वरु॑णस्य । व्र॒तानि॑ ॥

सायणभाष्यम्

विश्ववेदा विश्वधनोसुरोबलवान् वरुणोद्यामस्तभ्रात् तथा पृथिव्याः च वरिमाणं परिमाणममिमीत चक्रे । एवं निर्मितानि विश्वा सर्वाणि भुवनानि सम्राड्भूत्वा सीदच्चाध्यतिष्ठच्च । वरुणस्य तान्येतानि व्रतानि कर्माणि विश्वेत् विश्वान्येव अतोवर्णयितुमशक्यानीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८