मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४२, ऋक् २

संहिता

ए॒वा व॑न्दस्व॒ वरु॑णं बृ॒हन्तं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पाम् ।
स न॒ः शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑ ॥

पदपाठः

ए॒व । व॒न्द॒स्व॒ । वरु॑णम् । बृ॒हन्त॑म् । न॒म॒स्य । धीर॑म् । अ॒मृत॑स्य । गो॒पाम् ।
सः । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यं॒स॒त् । पा॒तम् । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । उ॒पऽस्थे॑ ॥

सायणभाष्यम्

हे स्तोतः बृहन्तं महान्तं वरुणमेवैवं वन्दस्व स्तुहि अमृतस्य गोपां गोपायितारं धीरं प्राज्ञं वरुणं नमस्य नमस्कुरुच । सवरुणो नोस्मभ्यं त्रिवरूथं त्रिस्थानं शर्म गृहं वियंसत् प्रयच्छतु उपस्थे उपस्थाने वर्तमानान् नोस्मान् द्यावापृथिवी द्यावापृथिव्यौ पातं रक्षतम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८