मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४२, ऋक् ५

संहिता

यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् ।
नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

यथा॑ । वा॒म् । अत्रिः॑ । अ॒श्वि॒ना॒ । गीः॒ऽभिः । विप्रः॑ । अजो॑हवीत् ।
नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

हे नासत्यावश्विनौ वां युवां विप्रः प्राज्ञोत्रिर्यथा गीर्भिः स्तुतिभिः सोमपीतये अजोहवीत् तथाहमपि जोहवीमि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८