मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् २

संहिता

अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे ।
अग्ने॒ जना॑मि सुष्टु॒तिम् ॥

पदपाठः

अस्मै॑ । ते॒ । प्र॒ति॒ऽहर्य॑ते । जात॑ऽवेदः । विऽच॑र्षणे ।
अग्ने॑ । जना॑मि । सु॒ऽस्तु॒तिम् ॥

सायणभाष्यम्

हे जातवेदः जातधन विचर्षणे विद्रष्टरग्ने अस्मै प्रतिहर्यते प्रयच्छते ते तुभ्यं सुष्टुतिं शोभनां स्तुतिं जनामि अंगिरसोहं जनयामि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९