मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् ९

संहिता

अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे ।
गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥

पदपाठः

अ॒प्ऽसु । अ॒ग्ने॒ । सधिः॑ । तव॑ । सः । ओष॑धीः । अनु॑ । रु॒ध्य॒से॒ ।
गर्भे॑ । सन् । जा॒य॒से॒ । पुन॒रिति॑ ॥

सायणभाष्यम्

हे अग्ने यस्य तवाप्सु सधिः प्रवेशस्थानं सत्वमोषधीरनुरुध्यसे अनुरुणत्सि पुनश्च तासां भूमिष्ठानां गर्भेसन् भवन् जायसे प्रादुर्भवसि ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०