मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् १६

संहिता

अग्ने॒ भ्रात॒ः सह॑स्कृत॒ रोहि॑दश्व॒ शुचि॑व्रत ।
इ॒मं स्तोमं॑ जुषस्व मे ॥

पदपाठः

अग्ने॑ । भ्रात॒रिति॑ । सहः॑ऽकृत । रोहि॑त्ऽअश्व । शुचि॑ऽव्रत ।
इ॒मम् । स्तोम॑म् । जु॒ष॒स्व॒ । मे॒ ॥

सायणभाष्यम्

हे अग्ने भ्रातः भ्रातृवद्यजमानानां मित्रभूत सहस्कृत सहसा बलेनकृत रोहिदश्व लोहितवर्णाश्व शुचिव्रत शुद्धकर्मन्नग्ने आङ्गिरसस्ये मे मम इमं स्तोमं जुषस्व सेवस्व ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२