मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् २४

संहिता

वि॒शां राजा॑न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मम् ।
अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥

पदपाठः

वि॒शाम् । राजा॑नम् । अद्भु॑तम् । अधि॑ऽअक्षम् । धर्म॑णाम् । इ॒मम् ।
अ॒ग्निम् । ई॒ळे॒ । सः । ऊं॒ इति॑ । श्र॒व॒त् ॥

सायणभाष्यम्

विशां प्रजानां राजानमीश्वरं अद्भुतं महान्तं धर्मणां कर्मणामध्यक्षमनुसंधातारं इममग्निं ईळे स्तौमि । सउ सएवाग्निः श्रवदस्मदीयां स्तुतिं शृणोतु ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३