मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् २५

संहिता

अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं॑ हि॒तम् ।
सप्तिं॒ न वा॑जयामसि ॥

पदपाठः

अ॒ग्निम् । वि॒श्वायु॑ऽवेपसम् । मर्य॑म् । न । वा॒जिन॑म् । हि॒तम् ।
सप्ति॑म् । न । वा॒ज॒या॒म॒सि॒ ॥

सायणभाष्यम्

विश्वायुवेपसं सर्वगतबलमग्निं वाजिनं बलिनं मर्यं न मनुष्यमिव । हितं सप्तिं न अश्वमिव वाजयामसि स्तुतिभिर्हविर्भिश्च बलिनं कुर्मः ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३