मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् ३१

संहिता

अ॒ग्निं म॒न्द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषम् ।
हृ॒द्भिर्म॒न्द्रेभि॑रीमहे ॥

पदपाठः

अ॒ग्निम् । म॒न्द्रम् । पु॒रु॒ऽप्रि॒यम् । शी॒रम् । पा॒व॒कऽशो॑चिषम् ।
हृ॒त्ऽभिः । म॒न्द्रेभिः॑ । ई॒म॒हे॒ ॥

सायणभाष्यम्

मन्द्रं मादनं पुरुप्रियं बहुप्रियं शीरं यज्ञेषु शयनशीलं पावकशोचिषं पावकदीप्तिं अग्निं त्दृद्भिर्मनोहरैर्मन्द्रेभिर्मादनैः स्तोत्रैः ईमहे याचामहे ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५