मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् २

संहिता

अग्ने॒ स्तोमं॑ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना ।
प्रति॑ सू॒क्तानि॑ हर्य नः ॥

पदपाठः

अग्ने॑ । स्तोम॑म् । जु॒ष॒स्व॒ । मे॒ । वर्ध॑स्व । अ॒नेन॑ । मन्म॑ना ।
प्रति॑ । सु॒ऽउ॒क्तानि॑ । ह॒र्य॒ । नः॒ ॥

सायणभाष्यम्

हे अग्ने मे आङ्गिरसस्य मम स्तोमं स्तोत्रं जुषस्व सेवस्व अनेन मन्मना मननीयेन स्तोत्रेण वर्धस्व च । नोस्माकं सूक्तानि प्रतिहर्य कामय च ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६