मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् ३

संहिता

अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे ।
दे॒वाँ आ सा॑दयादि॒ह ॥

पदपाठः

अ॒ग्निम् । दू॒तम् । पु॒रः । द॒धे॒ । ह॒व्य॒ऽवाह॑म् । उप॑ । ब्रु॒वे॒ ।
दे॒वान् । आ । सा॒द॒या॒त् । इ॒ह ॥

सायणभाष्यम्

दूतं देवानां हव्यवाहं हविषां वोढारं चाग्निं पुरोदधे पुरस्करोमि उपब्रुवे उपस्तौमि च । सोग्निरिहयज्ञे देवानासादयादासादयतु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६