मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् ११

संहिता

अग्ने॒ नि पा॑हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः ।
भि॒न्धि द्वेषः॑ सहस्कृत ॥

पदपाठः

अग्ने॑ । नि । पा॒हि॒ । नः॒ । त्वम् । प्रति॑ । स्म॒ । दे॒व॒ । रिष॑तः ।
भि॒न्धि । द्वेषः॑ । स॒हः॒ऽकृ॒त॒ ॥

सायणभाष्यम्

हे सहस्कृत बलेनकृत देव दीप्ताग्ने रिषतोहिंसकान् नोस्मान्प्रति निपाहि प्रतिरक्ष । स्मेति पूरणः द्वेषोद्विषः शत्रूंश्च भिन्धि विदारय ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८