मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् १२

संहिता

अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुम्भा॑नस्त॒न्वं१॒॑ स्वाम् ।
क॒विर्विप्रे॑ण वावृधे ॥

पदपाठः

अ॒ग्निः । प्र॒त्नेन॑ । मन्म॑ना । शुम्भा॑नः । त॒न्व॑म् । स्वाम् ।
क॒विः । विप्रे॑ण । व॒वृ॒धे॒ ॥

सायणभाष्यम्

कविः क्रान्तकर्माग्निः प्रत्नेन पुराणेन मन्मना मननीयेन स्तोत्रेण स्वां स्वकीयां तन्वं तनुमंगं शुंभानः शोभयन् विप्रेण मेधाविना स्तोत्रा ववृधे प्रवुद्धोभवति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८