मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् १६

संहिता

अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑ः पृथि॒व्या अ॒यम् ।
अ॒पां रेतां॑सि जिन्वति ॥

पदपाठः

अ॒ग्निः । मू॒र्धा । दि॒वः । क॒कुत् । पतिः॑ । पृ॒थि॒व्याः । अ॒यम् ।
अ॒पाम् । रेतां॑सि । जि॒न्व॒ति॒ ॥

सायणभाष्यम्

मूर्धा देवानां श्रेष्ठो दिवोद्युलोकस्य ककुदुच्छ्र्तः पृथिव्याश्च पतिरयमग्निः अपांरेतांसि स्थावरजंगमात्मकानि भूतानि जिन्वति प्रीणयति ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९