मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् २०

संहिता

अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑त॒ः सदा॑ ।
अ॒ग्नेः स॒ख्यं वृ॑णीमहे ॥

पदपाठः

अद॑ब्धस्य । स्व॒धाऽव॑तः । दू॒तस्य॑ । रेभ॑तः । सदा॑ ।
अ॒ग्नेः । स॒ख्यम् । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

हे अग्ने अदब्धस्य केनाप्यहिंसितस्य स्वधावतोबलवतो दूतस्य देवानां रेभतोदेवान् स्तुवतः अग्नेः तव सख्यं सदा वयं वृणीमहे ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९