मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् २५

संहिता

अग्ने॑ धृ॒तव्र॑ताय ते समु॒द्राये॑व॒ सिन्ध॑वः ।
गिरो॑ वा॒श्रास॑ ईरते ॥

पदपाठः

अग्ने॑ । धृ॒तऽव्र॑ताय । ते॒ । स॒मु॒द्राय॑ऽइव । सिन्ध॑वः ।
गिरः॑ । वा॒श्रासः॑ । ई॒र॒ते॒ ॥

सायणभाष्यम्

हे अग्ने धृतव्रताय धृतकर्मणे ते तुभ्यं वाश्रासो वाशनशीलागिरो मम स्तुतयः सिन्धवोनद्यः समुद्रायेव यथा समुद्राय तथा ईरते प्रवर्तन्ते ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०