मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् २८

संहिता

अ॒यम॑ग्ने॒ त्वे अपि॑ जरि॒ता भू॑तु सन्त्य ।
तस्मै॑ पावक मृळय ॥

पदपाठः

अ॒यम् । अ॒ग्ने॒ । त्वे इति॑ । अपि॑ । ज॒रि॒ता । भू॒तु॒ । स॒न्त्य॒ ।
तस्मै॑ । पा॒व॒क॒ । मृ॒ळ॒य॒ ॥

सायणभाष्यम्

हे पावक शोधक सन्त्य संभजनीयाग्ने त्वे अपि त्वय्यपि अस्मदीयोजनो जरिता स्तोता भूतु भवतु । तस्मै जरित्रे मृळय सुखमुत्पादय तं सुखय वा ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१