मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ९

संहिता

अ॒स्माकं॒ सु रथं॑ पु॒र इन्द्र॑ः कृणोतु सा॒तये॑ ।
न यं धूर्व॑न्ति धू॒र्तयः॑ ॥

पदपाठः

अ॒स्माक॑म् । सु । रथ॑म् । पु॒रः । इन्द्रः॑ । कृ॒णो॒तु॒ । सा॒तये॑ ।
न । यम् । धूर्व॑न्ति । धू॒र्तयः॑ ॥

सायणभाष्यम्

यमिन्द्रं धूर्तयोहिंसकाः न धूर्वन्ति न हिंसन्ति सइन्द्रोस्माकं सातयेभीष्टलाभाय सुरथं कल्याणं रथं पुरः कृणोतु पुरस्करोतु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४३