मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् १५

संहिता

यस्ते॑ रे॒वाँ अदा॑शुरिः प्रम॒मर्ष॑ म॒घत्त॑ये ।
तस्य॑ नो॒ वेद॒ आ भ॑र ॥

पदपाठः

यः । ते॒ । रे॒वान् । अदा॑शुरिः । प्र॒ऽम॒मर्ष॑ । म॒घत्त॑ये ।
तस्य॑ । नः॒ । वेदः॑ । आ । भ॒र॒ ॥

सायणभाष्यम्

हे इन्द्र मघत्तये धनदानाय ते तुभ्यं यः पुमान् रेवान् धनवान् सन् अदाशुरिरदानशीलः प्रममर्षाभ्यसूयति तस्य पुंसोवेदोधनं नोस्मभ्यमाभराहर ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४४