मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् १९

संहिता

यच्चि॒द्धि ते॒ अपि॒ व्यथि॑र्जग॒न्वांसो॒ अम॑न्महि ।
गो॒दा इदि॑न्द्र बोधि नः ॥

पदपाठः

यत् । चि॒त् । हि । ते॒ । अपि॑ । व्यथिः॑ । ज॒ग॒न्वांसः॑ । अम॑न्महि ।
गो॒ऽदाः । इत् । इ॒न्द्र॒ । बो॒धि॒ । नः॒ ॥

सायणभाष्यम्

अपिचिदपिच हे इन्द्र ते तुभ्यं यद्यदाहि व्यथिर्दारिद्य्रेण व्यथिताः जगन्वांसोगन्तारोवयममन्महि विष्टुमः तदा नोस्माकं गोदाइत् गवांदातैव भ- वामीति बोधि बुध्यस्व ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४५