मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् २२

संहिता

अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑ ।
तृ॒म्पा व्य॑श्नुही॒ मद॑म् ॥

पदपाठः

अ॒भि । त्वा॒ । वृ॒ष॒भ॒ । सु॒ते । सु॒तम् । सृ॒जा॒मि॒ । पी॒तये॑ ।
तृ॒म्प । वि । अ॒श्नु॒हि॒ । मद॑म् ॥

सायणभाष्यम्

हे वृषभेन्द्र त्वा त्वां सुते सोमेभिषुतेसति सुतमभिषुतंसोमं पीतये पानायाभिसृजामि तृंप तृप्य मदं मदकरं सोमं व्यश्नुहिच ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४६