मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् २६

संहिता

अपि॑बत्क॒द्रुवः॑ सु॒तमिन्द्र॑ः स॒हस्र॑बाह्वे ।
अत्रा॑देदिष्ट॒ पौंस्य॑म् ॥

पदपाठः

अपि॑बत् । क॒द्रुवः॑ । सु॒तम् । इन्द्रः॑ । स॒हस्र॑ऽबाह्वे ।
अत्र॑ । अ॒दे॒दि॒ष्ट॒ । पौंस्य॑म् ॥

सायणभाष्यम्

इन्द्रः कद्रुवः कद्रुनामकस्यऋषेः संबंधिनं सुतमभिषुतं सोममपिबतु पीतवान् । सहस्रबाह्वे सहस्रबाहोः शत्रूंश्चाहन्नितिशेषः । अत्रास्मिन्नवसरे पौंस्यं इन्द्रस्य वीर्यमदेदिष्टादीप्यत ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४७