मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् १४

संहिता

अ॒भि वो॑ वी॒रमन्ध॑सो॒ मदे॑षु गाय गि॒रा म॒हा विचे॑तसम् ।
इन्द्रं॒ नाम॒ श्रुत्यं॑ शा॒किनं॒ वचो॒ यथा॑ ॥

पदपाठः

अ॒भि । वः॒ । वी॒रम् । अन्ध॑सः । मदे॑षु । गा॒य॒ । गि॒रा । म॒हा । विऽचे॑तसम् ।
इन्द्र॑म् । नाम॑ । श्रुत्य॑म् । शा॒किन॑म् । वचः॑ । यथा॑ ॥

सायणभाष्यम्

हे उद्गात्रादयो वोयूयमित्यर्थः अथवा हे यजमानाः वोयुष्माकं हिताय अन्धसः सोमस्य मदेषु उत्पाद्यमानेषु सत्सु वीरं शत्रूणामीरयितारं नाम शत्रूणामीतारं नाम शत्रूणां नामकं विचेतसं विशिष्टप्रज्ञं श्रुत्यं सर्वत्रश्रोतव्यं शाकिनं शक्तं ईदृशमिन्द्रं महा महत्या गिरा स्तुत्या वचो वाग्युष्मदी- या यथा येनप्रकारेण प्रवर्तते गायत्र्यात्रिष्टुभावा तथा अभिगाय गायत स्तुतिं कुरुत ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः