आ नो॑ वायो म॒हे तने॑ या॒हि म॒खाय॒ पाज॑से ।
व॒यं हि ते॑ चकृ॒मा भूरि॑ दा॒वने॑ स॒द्यश्चि॒न्महि॑ दा॒वने॑ ॥
आ । नः॒ । वा॒यो॒ इति॑ । म॒हे । तने॑ । या॒हि । म॒खाय॑ । पाज॑से ।
व॒यम् । हि । ते॒ । च॒कृ॒म । भूरि॑ । दा॒वने॑ । स॒द्यः । चि॒त् । महि॑ । दा॒वने॑ ॥
हे वायो त्वं नोस्मान्प्रत्यायाह्यागच्छ । किमर्थं महे महते तने धनाय मखाय महनीयाय पाजसे बलाय च उभयं प्रदातुमित्यर्थः । किमत्रास्तीति चेदुच्यते वयं हि वयं खलु ते भूरिदावने प्रभूतधनदात्रे चकृम स्तुतिं हविर्वा सद्यश्चित्तदानीमेव तवागमनानन्तरमेव चकृम । महिमहतो धनस्य दावने दात्रे ॥ २५ ॥