मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् २६

संहिता

यो अश्वे॑भि॒र्वह॑ते॒ वस्त॑ उ॒स्रास्त्रिः स॒प्त स॑प्तती॒नाम् ।
ए॒भिः सोमे॑भिः सोम॒सुद्भि॑ः सोमपा दा॒नाय॑ शुक्रपूतपाः ॥

पदपाठः

यः । अश्वे॑भिः । वह॑ते । वस्ते॑ । उ॒स्राः । त्रिः । स॒प्त । स॒प्त॒ती॒नाम् ।
ए॒भिः । सोमे॑भिः । सो॒म॒सुत्ऽभिः॑ । सो॒म॒ऽपाः॒ । दा॒नाय॑ । शु॒क्र॒पू॒त॒ऽपाः॒ ॥

सायणभाष्यम्

यः पृथुश्रवा अश्वेभिरश्वैर्वहते गृहं वस्ते वसति चोस्रागाः ताभिश्च गच्छतीत्यर्थः । त्रिः सप्तेति तासां गवां संख्योक्ताच । सा संख्या विशेष्यते सप्त- तीनां त्रिःसप्त उक्तसंख्याकाभिर्गोभिरश्वैश्च योगच्छति सपृथुश्रवाः एभिः सोमेभिः सोमैः सोमसुद्भिः सोममभिषुण्वद्भिश्च हेसोमपाः सोमस्यपात- रिति वायोः संबोधनं हे शक्रपूतपाः दीप्तपूतस्यच सोमस्य पातर्वायो दानाय तुभ्यं सोमं दातुं सोमैर्युक्तो भवतीतिशेषः ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः