मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् २८

संहिता

उ॒च॒थ्ये॒३॒॑ वपु॑षि॒ यः स्व॒राळु॒त वा॑यो घृत॒स्नाः ।
अश्वे॑षितं॒ रजे॑षितं॒ शुने॑षितं॒ प्राज्म॒ तदि॒दं नु तत् ॥

पदपाठः

उ॒च॒थ्ये॑ । वपु॑षि । यः । स्व॒ऽराट् । उ॒त । वा॒यो॒ इति॑ । घृ॒त॒ऽस्नाः ।
अश्व॑ऽइषितम् । रजः॑ऽइषितम् । शुना॑ऽइषितम् । प्र । अज्म॑ । तत् । इ॒दम् । नु । तत् ॥

सायणभाष्यम्

उचथ्ये वक्तव्ये स्तुत्ये वपुषि शरीरे यःस्वराट् स्वयं राजते यद्वा उचथ्यो वपुश्चोभौराजानौ तयोरपि यः स्वराट् स्वाराज्यं करोति अतिशयेन वर्तते । उतापिच हे वायो यश्च घृतश्नाः घृतवच्छुद्धः सराजा अश्वेषितं अश्वैःप्रापितम् । रजेषितं रजःशब्देनोष्ट्रो गर्दभोवोच्यते । तेनाप्यानीतं शुनेषितंचा- ज्मान्नं प्रादात् तदन्नमश्वाद्यानीतं इदं पुरतो दृश्यते तत् तवैवानुग्रहादित्यर्थः । अथवैकस्तच्छब्दः पूरणः अश्वाद्यानीतं यदस्ति तदिदं खल्विति ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः