मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् ३३

संहिता

अध॒ स्या योष॑णा म॒ही प्र॑ती॒ची वश॑म॒श्व्यम् ।
अधि॑रुक्मा॒ वि नी॑यते ॥

पदपाठः

अध॑ । स्या । योष॑णा । म॒ही । प्र॒ती॒ची । वश॑म् । अ॒श्व्यम् ।
अधि॑ऽरुक्मा । वि । नी॒य॒ते॒ ॥

सायणभाष्यम्

अधाधुना स्या सा योषणा योषा राज्ञा प्रदत्ता मही महती पूज्या प्रतीची अस्मदभिमुखी अश्व्यमश्वपुत्रं वशं मां प्रति सा अधिरुक्माभरणा सती विनोयते तां कन्यां मां प्रत्यानयन्तीत्यर्थः । अत्र वायव्यास्वृक्षु यत्र वायुर्नस्तूयते परं दानप्रशंसैव तासु सर्वासु हे वायोत्वदनुग्रहादेवमितियोज्य वायुपरत्वमवगन्तव्यम् ॥ ३३ ॥

महिवइत्यष्टादशर्चं पञ्चमं सूक्तं आप्त्यस्य त्रितस्यार्षं षडष्टकामहापङ्क्तिश्छन्दः आद्यास्त्रयोदशर्चः आदित्यदेवताकाः यच्चगोष्वित्याद्याः पञ्चर्च उषोदेवताकाः आदित्यदेवताकाश्च । तथाचानुक्रमणिका-महिवोद्मूना त्रितआप्त्यआदित्येभ्योन्त्याः पञ्चओषसेपि महापाङ्क्तमिति । सूक्तविनियो- गोलैङ्गिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः