मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४८, ऋक् २

संहिता

अ॒न्तश्च॒ प्रागा॒ अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य ।
इन्द॒विन्द्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी॑व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ॥

पदपाठः

अ॒न्तरिति॑ । च॒ । प्र । अगाः॑ । अदि॑तिः । भ॒वा॒सि॒ । अ॒व॒ऽया॒ता । हर॑सः । दैव्य॑स्य ।
इन्दो॒ इति॑ । इन्द्र॑स्य । स॒ख्यम् । जु॒षा॒णः । श्रौष्टी॑ऽइव । धुर॑म् । अनु॑ । रा॒ये । ऋ॒ध्याः॒ ॥

सायणभाष्यम्

हे सोम त्वं अन्तश्च प्रागाः हृदयस्य यागागारस्य वान्तर्गच्छसि गत्वाचादितिः अदीनस्त्वं दैव्यस्य हरसः क्रोधस्यावयाता पृथक्कर्ता भवासि भवसि । हरइति क्रोधनाम हे इन्द्रो सोम त्वं इन्द्रस्य सख्यं जुषाणः सेवमानः श्रौष्टीश्रुष्टीति क्षिप्रनाम तत्संबन्धी श्रौष्टी क्षिप्रगाम्यश्वोधुरमिव रायेस्माकं धनलाभाय अनुऋध्याः अनुगच्छसि । अथवाश्वोयथा धुरं वृत्वाभिमतदेशं प्रापयति तद्वदस्मान्प्रापय अनुपूर्वोरुधिर्गत्यर्थः ॥ २ ॥ अपामसोममित्यादिके द्वे सोमपानोत्तरकालीनास्याभिमर्शने हृदयाभिमर्शनेच क्रमेणविनियुक्ते । तथाचसूत्रितम्-अपामसोमममृताअभूम शंनो- भवहृदाआपीतइन्द्रविति मुखहृदये अभिमृशेरन्निति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११