मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४८, ऋक् ८

संहिता

सोम॑ राजन्मृ॒ळया॑ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॒॑स्तस्य॑ विद्धि ।
अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरि॑न्दो॒ मा नो॑ अ॒र्यो अ॑नुका॒मं परा॑ दाः ॥

पदपाठः

सोम॑ । रा॒ज॒न् । मृ॒ळय॑ । नः॒ । स्व॒स्ति । तव॑ । स्म॒सि॒ । व्र॒त्याः॑ । तस्य॑ । वि॒द्धि॒ ।
अल॑र्ति । दक्षः॑ । उ॒त । म॒न्युः । इ॒न्दो॒ इति॑ । मा । नः॒ । अ॒र्यः । अ॒नु॒ऽका॒मम् । परा॑ । दाः॒ ॥

सायणभाष्यम्

हे सोमराजन्नोस्मान् स्वस्त्यविनाशाय मृळय सुखयच व्रत्याः व्रतिनोवयं तवस्मसि स्वभूताः स्म तस्य तं स्वकीयं तव विद्धि जानीहि । अथवा तव त्वमित्यर्थः त्वं जानीहि । किञ्च हे इन्द्रो दक्षः प्रवृद्धोस्मच्छत्रुरलर्ति गच्छति । उतापिच मन्युः क्रोधः क्रुद्धोवालर्ति तादृशस्योभयविधस्यार्यः अरेः अनुकामं यथाकामं नोस्मान्मापरादाः परादेहि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२