मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४८, ऋक् १०

संहिता

ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये॑द्धर्यश्व पी॒तः ।
अ॒यं यः सोमो॒ न्यधा॑य्य॒स्मे तस्मा॒ इन्द्रं॑ प्र॒तिर॑मे॒म्यायु॑ः ॥

पदपाठः

ऋ॒दू॒दरे॑ण । सख्या॑ । स॒चे॒य॒ । यः । मा॒ । न । रिष्ये॑त् । ह॒रि॒ऽअ॒श्व॒ । पी॒तः ।
अ॒यम् । यः । सोमः॑ । नि । अधा॑यि । अ॒स्मे इति॑ । तस्मै॑ । इन्द्र॑म् । प्र॒ऽतिर॑म् । ए॒मि॒ । आयुः॑ ॥

सायणभाष्यम्

अहंप्रगाथो ऋदूदरेण उदराबाधकेन सोमेन सख्या सचेय संगच्छेय संगतोभवामि । ऋदूदरः सोमोमृदूदरइतियास्कः । यःसोमः पीतःसन् मा मां नरिष्येत् नहिंस्येत् । हे हर्यश्वेन्द्र । सौम्ये सूक्ते इन्द्रस्यकीर्तनं सोमस्येन्द्रस्वामिकत्वान्नविरुद्धम् । योयं सोमोस्मेस्मासु न्यधायि निहितोभूत्तस्मै सोमाय प्रतिरमायुर्जठरे चिरकालावस्थानं इन्द्रमेमि याचे ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२