मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४८, ऋक् ११

संहिता

अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी॑वा॒ निर॑त्रस॒न्तमि॑षीची॒रभै॑षुः ।
आ सोमो॑ अ॒स्माँ अ॑रुह॒द्विहा॑या॒ अग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयु॑ः ॥

पदपाठः

अप॑ । त्याः । अ॒स्थुः॒ । अनि॑राः । अमी॑वाः । निः । अ॒त्र॒स॒न् । तमि॑षीचीः । अभै॑षुः ।
आ । सोमः॑ । अ॒स्मान् । अ॒रु॒ह॒त् । विऽहा॑याः । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयुः॑ ॥

सायणभाष्यम्

त्यास्ता अनिराः प्रेरयितुमशक्याः अमीवाः बलवत्यः पीडाः अपास्थुः अपगच्छन्तु यास्तमिषीचीर्बलवत्योस्मान् निः नितरामत्रसन् प्राप्नुवन् कंपयं- ति तथा अभैषुः । अपगमे कारणमाह-यस्मात्सोमोविहायामहान् सन् अस्माना अरुहत् आगमत् प्राप्तवान् अतोपास्थुरितिभावः । यत्र यस्मिन् सोमे पीते आयुरायुष्यं प्रतिरन्ते वर्धयन्ति मनुष्यास्तंसोममगन्मेति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३