मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् १

संहिता

अग्न॒ आ या॑ह्य॒ग्निभि॒र्होता॑रं त्वा वृणीमहे ।
आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिरा॒सदे॑ ॥

पदपाठः

अग्ने॑ । आ । या॒हि॒ । अ॒ग्निऽभिः॑ । होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ।
आ । त्वाम् । अ॒न॒क्तु॒ । प्रऽय॑ता । ह॒विष्म॑ती । यजि॑ष्ठम् । ब॒र्हिः । आ॒ऽसदे॑ ॥

सायणभाष्यम्

हे अग्ने अग्निभिर्यष्टव्यैः सहायाह्यागच्छ । तदर्थं होतारं देवानामाह्वातारं त्वा त्वां वृणीमहे त्वां आगतं प्रयताध्वर्युर्हस्ताभ्यां नियता हविष्मती घृतवती यजिष्ठं त्वां बर्हिः बर्हिष्यासदे आसद्य आसर्वतोनक्तु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२