मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् २

संहिता

अच्छा॒ हि त्वा॑ सहसः सूनो अङ्गिर॒ः स्रुच॒श्चर॑न्त्यध्व॒रे ।
ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥

पदपाठः

अच्छ॑ । हि । त्वा॒ । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ङ्गि॒रः॒ । स्रुचः॑ । चर॑न्ति । अ॒ध्व॒रे ।
ऊ॒र्जः । नपा॑तम् । घृ॒तऽके॑शम् । ई॒म॒हे॒ । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥

सायणभाष्यम्

हे सहसःसूनो बलस्यपुत्र बलेन मथ्यमानत्वात् हे अंगिरः अंगिरसां मध्ये एक अथवांगतिर्गतिकर्मा सर्वत्र संगतस्त्वा त्वां अध्वरे यागे अच्छाभिप्राप्तुं स्रुचश्चरन्ति गच्छन्ति अत ऊर्जोन्नस्य नपातं न पातयितारं रक्षकं बलस्य नप्तारं वा घृतकेशं प्रदीप्तकेशस्थानीयज्वालं पूर्व्यं पुरातनं पूरकं वाग्निं य- ज्ञेषु अस्मदीयेषु ईमहे स्तौमि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२