अग्ने॑ क॒विर्वे॒धा अ॑सि॒ होता॑ पावक॒ यक्ष्य॑ः ।
म॒न्द्रो यजि॑ष्ठो अध्व॒रेष्वीड्यो॒ विप्रे॑भिः शुक्र॒ मन्म॑भिः ॥
अग्ने॑ । क॒विः । वे॒धाः । अ॒सि॒ । होता॑ । पा॒व॒क॒ । यक्ष्यः॑ ।
म॒न्द्रः । यजि॑ष्ठः । अ॒ध्व॒रेषु॑ । ईड्यः॑ । विप्रे॑भिः । शु॒क्र॒ । मन्म॑ऽभिः ॥
हे अग्ने कविर्मेधावी त्वं वेधाः विधातासि फलानां । हे पावक होता देवानामाह्वाता होमनिष्पादकोवा यक्ष्योयष्टव्योसि । हे शुक्र दीप्त मन्द्रो मोद- नीयो यजिष्ठो यष्टृतमस्त्वं अध्वरेषु यज्ञेषु विप्रेभिर्मेधाविभिरृत्विग्भिर्मन्मभिर्मननीयैः स्तोत्रैरीड्यः स्तुत्योसि ॥ ३ ॥