अद्रो॑घ॒मा व॑होश॒तो य॑विष्ठ्य दे॒वाँ अ॑जस्र वी॒तये॑ ।
अ॒भि प्रयां॑सि॒ सुधि॒ता व॑सो गहि॒ मन्द॑स्व धी॒तिभि॑र्हि॒तः ॥
अद्रो॑घम् । आ । व॒ह॒ । उ॒श॒तः । य॒वि॒ष्ठ्य॒ । दे॒वान् । अ॒ज॒स्र॒ । वी॒तये॑ ।
अ॒भि । प्रयां॑सि । सु॒ऽधि॒ता । आ । व॒सो॒ इति॑ । ग॒हि॒ । मन्द॑स्व । धी॒तिऽभिः॑ । हि॒तः ॥
अद्रोघमद्रोग्धारं मां प्रति हे यविष्ठ्य युवतम अजस्र नित्य आवहानय । कान् उशतोस्मदर्थं कामयमानान् देवान् । किमर्थं वीतये हविर्भक्षणाय । हे वसो वासकाग्ने सुधिता सुनिहितानि प्रयांस्यन्नानि अभिगहे अभिगच्छ । आगत्यच धीतिभिः स्तुतिभिर्निहितो निहितःसन् मन्दस्व । यद्वा धीतिभिः मन्दस्वेति संबन्धः ॥ ४ ॥