मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् ८

संहिता

मा नो॒ मर्ता॑य रि॒पवे॑ रक्ष॒स्विने॒ माघशं॑साय रीरधः ।
अस्रे॑धद्भिस्त॒रणि॑भिर्यविष्ठ्य शि॒वेभि॑ः पाहि पा॒युभि॑ः ॥

पदपाठः

मा । नः॒ । मर्ता॑य । रि॒पवे॑ । र॒क्ष॒स्विने॑ । मा । अ॒घऽशं॑साय । री॒र॒धः॒ ।
अस्रे॑धत्ऽभिः । त॒रणि॑ऽभिः । य॒वि॒ष्ठ्य॒ । शि॒वेभिः॑ । पा॒हि॒ । पा॒युऽभिः॑ ॥

सायणभाष्यम्

नोस्मान् मर्ताय मनुष्याय रिपवे शत्रवे हिंसित्रे रक्षस्विने बलवते मारीरधो वशमानय तथाघशंसाय पापशंसकाय मारीरधः । हे यविष्ठ्य युवतम अस्रेधद्भिः अहिंसकैस्तरणिभिस्तारकैः शिवेभिः सुखकरैः पायुभिः पालनैः नोस्मान्पाहि रक्ष ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३