मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् १७

संहिता

अ॒ग्निम॑ग्निं वो॒ अध्रि॑गुं हु॒वेम॑ वृ॒क्तब॑र्हिषः ।
अ॒ग्निं हि॒तप्र॑यसः शश्व॒तीष्वा होता॑रं चर्षणी॒नाम् ॥

पदपाठः

अ॒ग्निम्ऽअ॑ग्निम् । वः॒ । अध्रि॑ऽगुम् । हु॒वेम॑ । वृ॒क्तऽब॑र्हिषः ।
अ॒ग्निम् । हि॒तऽप्र॑यसः । श॒श्व॒तीषु॑ । आ । होता॑रम् । च॒र्ष॒णी॒नाम् ॥

सायणभाष्यम्

अग्निमग्निं वीप्सा आदरार्था अग्निमेव हे यजमानाः वोयुष्मदर्थं हुवेम आह्वयाम । अथवा हे देवा वो युष्मदर्थमितिवा व्याख्येयम् । कीदृशावयं वृक्तबर्हिषः छिन्नदर्भाः कीदृशमग्निं अध्रिगुमधृतकर्माणं सर्वदा गृहेवर्तमानं अग्निं हितप्रयसः निहितहविष्कावयं आहुवेमेति शेषः । कीदृशमग्निं शश्वतीषु बह्वीषु भूमिषु वर्तमानं होतारं होमनिष्पादकम् । किमर्थं चर्षणीनां मनुष्याणामर्थाय । अग्नौ तृप्तेसति वृष्टिलाभात्प्राण्युपकारसिद्धं प्राण्यर्थत्वम् । अथवा म्नुष्याणां यजमानानां होतारं होमसाधकम् ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५