मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् १९

संहिता

अग्ने॒ जरि॑तर्वि॒श्पति॑स्तेपा॒नो दे॑व र॒क्षसः॑ ।
अप्रो॑षिवान्गृ॒हप॑तिर्म॒हाँ अ॑सि दि॒वस्पा॒युर्दु॑रोण॒युः ॥

पदपाठः

अग्ने॑ । जरि॑तः । वि॒श्पतिः॑ । ते॒पा॒नः । दे॒व॒ । र॒क्षसः॑ ।
अप्रो॑षिऽवान् । गृ॒हऽप॑तिः । म॒हान् । अ॒सि॒ । दि॒वः । पा॒युः । दु॒रो॒ण॒ऽयुः ॥

सायणभाष्यम्

हे अग्ने देव जरितः स्तोतः स्तुत्येत्यर्थः विश्पतिः प्रजानां पालकः रक्षसोराक्षसानां तेपानः सन्तापकोसि अप्रोषिवान्यजमानगृहमत्यजन् । तदेवाह- गृहपतिर्यजमानगृहस्यपालकश्च त्वं महानतिशयेन पूज्योसि दिवो द्युलोकस्य पायुः पाता दुरोणयुर्यजमानगृहस्य मिश्रयिता सर्वदा वर्तमानइत्यर्थः तादृशस्त्वं महानसीत्यन्वयः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५